वांछित मन्त्र चुनें

अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये॑भि॒र्यम॑ वैरू॒पैरि॒ह मा॑दयस्व । विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ॥

अंग्रेज़ी लिप्यंतरण

aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva | vivasvantaṁ huve yaḥ pitā te smin yajñe barhiṣy ā niṣadya ||

पद पाठ

अङ्गि॑रःऽभिः । आ । ग॒हि॒ । य॒ज्ञिये॑भिः । यम॑ । वै॒रू॒पैः । इ॒ह । मा॒द॒य॒स्व॒ । विव॑स्वन्तम् । हु॒वे॒ । यः । पि॒ता । ते॒ । अ॒स्मिन् । य॒ज्ञे । ब॒र्हिषि॑ । आ । नि॒ऽसद्य॑ ॥ १०.१४.५

ऋग्वेद » मण्डल:10» सूक्त:14» मन्त्र:5 | अष्टक:7» अध्याय:6» वर्ग:14» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यज्ञियेभिः-वैरूपैः-अङ्गिरोभिः-यम-आगहि इह मादयस्व) यज्ञ के योग्य नानाविध सायं-प्रातः, अमावस्या, पूर्णिमा, आदि सन्धियों के मुहूर्तरूप कालावयवों के साथ हे समय ! तू प्राप्त हो और इस यज्ञ में हमको अपने लाभ से तृप्त कर (यः ते पिता तं विवस्वन्तं बर्हिष्या निषद्य-अस्मिन् यज्ञे हुवे) और जो तेरा पिता सूर्यदेव है, उसका भी मैं आसनोपविष्ट इस यज्ञ में आहुतिप्रदान द्वारा प्रयोग करता हूँ ॥५॥
भावार्थभाषाः - भिन्न-भिन्न पर्व दिवसों में जबकि सूर्यरश्मियाँ भी यज्ञ में संयुक्त हों, ऐसे स्थान पर पार्वण यज्ञ समयानुकूल बनाने के लिए करने चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यज्ञियेभिः-वैरूपैः-अङ्गिरोभिः-यम-आ गहि इह मादयस्व) यज्ञार्हैर्यज्ञयोग्यैर्विभिन्नरूपैरङ्गिरोभिः-सायम्प्रातरमावस्यापौर्णमास्यादि-सन्धि-समप्राणैः कालावयवैः सह हे समय ! त्वमागह्यागच्छ तथाऽऽगत्येहास्मिन् यज्ञेऽस्मान्मादयस्व तर्पय (यः-ते पिता तं विवस्वन्तं बर्हिष्या निषद्य-अस्मिन् यज्ञे हुवे) यश्च ते पिता विवस्वान् सूर्योऽस्ति तमहमासनमुपविश्योपविष्टः सन्नस्मिन् क्रियमाणे यज्ञे हुवे-आहुतिप्रदानेनाददे युनज्मि। ‘अत्र हु धातुरादानार्थः’ “हु दानादनयोरादाने च” [जुहोत्यादिः] ॥५॥